|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.81. अध्यायः 081
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति स्त्रीणां प्रशंसनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः।
यस्याः किञ्चिन्नाददते ज्ञातयो न स विक्रयः॥ 13-81-1(84645)
अर्हणं तत्कुमारीणामानृशंस्यं व्रतं च तत्।
सर्वं च प्रतिदेयं स्यात्कन्यायै तदशेषतः॥ 13-81-2(84646)
पितृभिर्भ्रातृभिश्चापि श्वशुरैरथ देवरैः।
पूज्या लालयितव्याश्च बहुकल्याणमीप्सुभिः॥ 13-81-3(84647)
यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत्।
अप्रमोदात्पुनः पुंसः प्रजनो न प्रवर्धते॥ 13-81-4(84648)
पूज्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप।
स्त्रियो यत्र च पूज्यन्ते रमन्ते तत्र देवताः॥ 13-81-5(84649)
अपूजिताश्च यत्रैताः सर्वास्तत्राफलाः क्रियाः।
तदा चैतत्कुलं नास्ति यदा शोचन्ति जामयः॥ 13-81-6(84650)
जामीशप्तानि गेहानि निकृत्तानीव कृत्यया।
नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव॥ 13-81-7(84651)
स्त्रियः पुंसां परिददौ मनुर्जिगमिषुर्दिवम्।
अबलाः स्वल्पकौपीनाः सुहृद सत्यजिष्णवः॥ 13-81-8(84652)
ईर्षवो मानकामाश्च चण्डाश्च सुहृदोऽबुधाः।
स्त्रियस्तु मानमर्हन्ति ता मानयत मानवाः॥ 13-81-9(84653)
स्त्रीप्रत्ययो हि वै धर्मो रतिभोगाश्च केवलाः।
परिचर्या नमस्कारास्तदायत्ता भवन्तु वः॥ 13-81-10(84654)
उत्पादनमपत्यस्य जातस्य परिपालनम्।
प्रीत्यर्थं लोकयात्रायाः पश्यत स्त्रीनिबन्धनम्॥ 13-81-11(84655)
सम्मान्यमानाश्चैता हि सर्वकार्याष्यवाप्स्यथ।
विदेहराजदुहिता चात्र श्लोकमगायत॥ 13-81-12(84656)
नास्ति यज्ञः स्त्रियाः कश्चिन्न श्राद्धं नोप्रवासकम्।
धर्मः स्वभर्तृशुश्रूषा तया स्वर्गं जयन्त्युत॥ 13-81-13(84657)
पिता रक्षति कौमारे भर्ता रक्षति यौवने।
पुत्राश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति॥ 13-81-14(84658)
श्रिय एताः स्त्रियो नाम सत्कार्या भूतिमिच्छता।
लालिताऽनुगृहीता च श्रीः स्त्री भवति भारतः॥ ॥ 13-81-15(84659)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकाशीतितमोऽध्यायः॥ 81 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-81-1 प्राचेतसस्य दक्षस्य। ज्ञातयः कन्यापक्षीयाः। स्वयं नाददतेऽथ च कन्यालङ्कारर्थमिच्छन्ति स विक्रयो न भवतीत्यर्थ॥ 7-81-4 न रोचेत न कामयेत। न प्रमोदयेत्कामुकं न कुर्यात्। प्रजनः सन्ततिः॥ 7-81-8 स्वल्प ईषदायासेन अपनेयः कौपीनो गुह्याच्छादनपटो यासाम्। सद्योहार्या इत्यर्थः। सुहृदः सौहार्दयुक्ताः॥ 7-81-9 बुध्यन्त इत्यबुधाः॥ 7-81-10 स्त्रीप्रत्ययः स्त्रीहेतुकः॥ 7-81-12 अत्र स्त्रीधर्मविषये॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|